nivedita2015.files.wordpress.com · Web viewMelpathur Naaraayana Bhattatiri Mahodaya’s...

47
Melpathur Naaraayana Bhattatiri Mahodaya’s SrimanNaaraayaneeyam Explanation of Prathamadashakam by Sri Narayana Namboodiri Here is the playlist with all the sessions. https://www.youtube.com/watch? v=W6EdlWym6GQ&list=PLTWf5ZhGT3611nLPyFQx9kDE-Oz7UBlGD मममममममममम-मममममम-मममममममम- मममममममम ममममममममममममममममम – शशशश. शशशशशशशशशशशशशशश, शशशशशशशशशशशश, शशशशशशशशश (Melpathur Narayana Bhattathiri’s Sriman Naaraayaneeyam – First Dashakam explained by Sri Narayana Namboodiri, Samskrita Bharati, Bangalore). References are given at the end. To access the latest version of this file, you may use the link to the downloadable file mentioned in the blog page: https://nivedita2015.wordpress.com/sanskrit-session s/ srimannarayaneeyam/ म– ममममम – मममम ममममम ममममममममम मममममममममममम मममममममममम ममम

Transcript of nivedita2015.files.wordpress.com · Web viewMelpathur Naaraayana Bhattatiri Mahodaya’s...

Naaraayaneeyam - Explained by Sri Narayana Namboodiri

Melpathur Naaraayana Bhattatiri Mahodaya’s SrimanNaaraayaneeyam Explanation of Prathamadashakam by Sri Narayana Namboodiri

Here is the playlist with all the sessions. https://www.youtube.com/watch?v=W6EdlWym6GQ&list=PLTWf5ZhGT3611nLPyFQx9kDE-Oz7UBlGD

मेल्पत्तूर-नारायण-भट्टतिरि-महोदयस्य श्रीमन्नारायणीयम् – श्री. नारायणनम्बूदिरि, संस्कृतभारती, बेङ्गलुरु

(Melpathur Narayana Bhattathiri’s Sriman Naaraayaneeyam – First Dashakam explained by Sri Narayana Namboodiri, Samskrita Bharati, Bangalore).

References are given at the end. To access the latest version of this file, you may use the link to the downloadable file mentioned in the blog page:

https://nivedita2015.wordpress.com/sanskrit-sessions/srimannarayaneeyam/

श्रीमन्नारायणीयम् – दशकम् – १॥ ॐ नमो भगवते वासुदेवाय ॥॥ ॐ श्रीकृष्णाय परब्रह्मणे नमः ॥

1.1. श्लोकः

Video - https://youtu.be/w-IIzkglZ0U

प्रस्तावना

भगत्स्वरूपं महिमा च श्रीमन्नारायणीयस्य प्रथमदशकस्य विषयः । तत्र प्रथमस्लोके गुरुवायुपुरमन्दिरे तत् प्रसिद्धं ब्रह्मतत्वमेव प्रत्यक्षं विराजते इति उक्त्वा तस्य महत्वं वर्णयति - तत् ब्रह्मतत्वं कीदृशमस्ति इति अन्वये तस्य विशेषणानि पश्याम ।

मूलपाठः

सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यांनिर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्मतत्त्वंतत्तावद्भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ १ ॥

पदच्छेदः

सान्द्रानन्दावबोधात्मकम्, अनुपमितम्, कालदेशावधिभ्याम्, निर्मुक्तम्, नित्यमुक्तम्, निगमशतसहस्रेण, निर्भास्यमानम्, अस्पष्टम्, दृष्टमात्रे, पुनः, उरुपुरुषार्थात्मकम्, ब्रह्मतत्त्वम्, तत्, तावत्, भाति, साक्षात्, गुरुपवनपुरे, हन्त, भाग्यम्, जनानाम्

अन्वयार्थः

· सान्द्रानन्दावबोधात्मकम् = परमानन्दज्ञानस्वरूपम्

· सान्द्रानन्दः = अतीवानन्दः, परमानन्दः

· अवबोधः = ज्ञानम्

· अनुपमितम् = अनन्यसदृशम्

· कालदेशावधिभ्यां निर्मुक्तम् = कालस्य देशस्य वा परिमितिः नास्ति, स्वतन्त्रम्

· नित्यमुक्तम् = सदा स्वतन्त्रं सुखदुःखादिमायाबन्धं नास्ति

· निगमशतसहस्रेण निर्भास्यमानम् = अनेकैः वेदमन्त्रैः प्रकाश्यमानम्

· अस्पष्टम् = न स्पष्टम्

· दृष्टमात्रे पुनः = केवलम् एकवारं तस्य दर्शनानन्तरम्

· उरुपुरुषार्थात्मकम् = बृहत् पुरुषार्थात्मकं, मोक्षस्वरूपम्

· तत् ब्रह्मतत्त्वम् = प्रसिद्धं ब्रह्मतत्त्वम्

· गुरुपवनपुरे = अत्र गुरुवायुपुरे

· तावत् साक्षात् भाति = प्रत्यक्षं दृश्यते

· हन्त = हा हन्त !

· जनानां भाग्यम् = एतद् जनानां भाग्यमेव

अन्वयः

सान्द्रानन्दावबोधात्मकम् अनुपमितं कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् अस्पष्टं दृष्टमात्रे पुनः उरुपुरुषार्थात्मकं तत् ब्रह्मतत्त्वं गुरुपवनपुरे तावत् साक्षात् भाति । हन्त ! जनानां भाग्यम् ।

अन्वयरचना

· भाति

· कथं भाति ? साक्षात्

· कदा भाति ? तावत्

· किं भाति ? तत् ब्रह्मतत्त्वम्

· कीदृशं ब्रह्मतत्त्वम् ? सान्द्रानन्दावबोधात्मकम्

· पुनः कीदृशं ब्रह्मतत्त्वम् ? अनुपमितम्

· पुनः कीदृशं ब्रह्मतत्त्वम् ? निर्मुक्तम्

· काभ्यां निर्मुक्तम् ? कालदेशावधिभ्याम्

· पुनः कीदृशं ब्रह्मतत्त्वम् ? नित्यमुक्तम्

· पुनः कीदृशं ब्रह्मतत्त्वम् ? निर्भास्यमानम्

· केन निर्भास्यमानम् ? निगमशतसहस्रेण

· पुनः कीदृशं ब्रह्मतत्त्वम् ? अस्पष्टम्

· पुनः कीदृशं ब्रह्मतत्त्वम् ? उरुपुरुषार्थात्मकम्

· कदा उरुपुरुषार्थात्मकम् ? दृष्टमात्रे पुनः

· कुत्र भाति ? गुरुपवनपुरे

· हन्त !

· (तत्) भाग्यम् (अस्ति)

· केषां भाग्यम् ? जनानाम्

तात्पर्यम्

वेदेषु उपनिषद्सु च वर्णितं प्रसिद्धं ब्रह्मतत्त्वं परमानन्दज्ञानस्वरूपम् अनन्यसदृशं च अस्ति । कालदेशावधिभ्यां निर्मुक्तम् अस्ति इति तस्य नित्यत्वं विभुत्वं च सूचयति, यतः अस्य कालस्य देशस्य वा परिमितिः न भवति । तत् ब्रह्मतत्त्वं सुखदुःखादिमायाबन्धं विना सर्वदा स्वतन्त्रमस्ति । तत् ब्रह्मतत्त्वं तु अनेकैः वेदमन्त्रैः प्रकाश्यमानमस्ति । तथापि भक्तिहीनानाम् अज्ञानिनां कृते अस्पष्टं भवति । केवलम् एकवारं तस्य दर्शनानन्तरं बृहत् पुरुषार्थात्मकं मोक्षस्वरूपमस्ति । तादृशं मह्द्ब्रह्मतत्त्वम् अत्र गुरुवायुपुरे प्रत्यक्षं दृश्यते ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

· पुनरुरुपुरुषार्थात्मकम् = पुनः उरुपुरुषार्थात्मकम् - विसर्गसन्धिः रेफादेशः

· तावद्भाति = तावत् भाति - जश्त्वसन्धिः

· साक्षाद् गुरुपवनपुरे = साक्षात् गुरुपवनपुरे - जश्त्वसन्धिः

· अनुपमितं, कालदेशावधिभ्यां, निर्मुक्तं, नित्यमुक्तं, अस्पष्टं, उरुपुरुषार्थात्मकं, ब्रह्मतत्वं, भाग्यं - अनुस्वारसन्धिः

पदपरिचयः

· सान्द्रानन्दावबोधात्मकम् = अ., नपुं., प्र.वि., ए.व.

· अनुपमितम् = अ., नपुं., प्र.वि., ए.व.

· कालदेशावधिभ्याम् = कालदेशावधि शब्दः, इ., पुं., तृ.वि., द्वि.व.

· निर्मुक्तम् = अ., नपुं., प्र.वि., ए.व.

· नित्यमुक्तम् = अ., नपुं., प्र.वि., ए.व.

· निगमशतसहस्रेण = अ., नपुं., तृ.वि., ए.व.

· निर्भास्यमानम् = अ., नपुं., प्र.वि., ए.व.

· अस्पष्टम् = अ., नपुं., प्र.वि., ए.व.

· दृष्टमात्रे = अ., नपुं., स.वि., ए.व.

· पुनः = अव्ययम्

· उरुपुरुषार्थात्मकम् = अ., नपुं., प्र.वि., ए.व.

· ब्रह्मतत्त्वम् = अ., नपुं., प्र.वि., ए.व.

· तत् = तद् शब्दः द., नपुं., प्र.वि., ए.व.

· तावत् = अव्ययम्

· भाति = भा “भा दीप्तौ” परस्मैपदं लट्लकारः प्रथमपुरुषैकवचनम् [http://ashtadhyayi.com/dhatu/02.0046]

· साक्षात् = अव्ययम्

· गुरुपवनपुरे = अ., नपुं., स.वि., ए.व.

· हन्त = अव्ययम्

· भाग्यम् = अ., नपुं., प्र.वि., ए.व.

· जनानाम् = अ., पुं., ष.वि., ब.व.

पदविवरणम्

· सान्द्रानन्दावबोधात्मकम्

· सान्द्रानन्द्रः = सान्द्रः आनन्दः – कर्मधारयः, सवर्णदीर्घसन्धिः

· सान्द्रानन्दावबोधौ = सान्द्रानन्दश्च अवबोधस्च – द्विगुः, सवर्णदीर्घसन्धिः

· सान्द्रानन्दावबोधात्मा = सान्द्रानन्दावबोधौ एव आत्मा – कर्मधारयः, सवर्णदीर्घसन्धिः

· सान्द्रानन्दावबोधात्मकम् = सान्द्रानन्दावबोधात्मा तदीयम् – तद्धितः ।

· अनुपमितम् = न उपमितम् - नञ्-समासः ।

· कालदेशावधिभ्याम्

· कालदेशौ = कालश्च देशश्च – द्वन्द्वः ।

· कालदेशावधिभ्याम् = कालदेशौ एव अवधी / कालदेशयोः अवधी, ताभ्याम् - सवर्णदीर्घसन्धिः

· नित्यमुक्तम् = नित्यं मुक्तम् – कर्मधारयः ।

· निगमशतसहस्रेण

· शतसहस्रम् = शतानि च सहस्राणि च एतेषां समाहारः – द्वन्द्वः ।

· निगमशतसहस्रम् = निगमानां शतसहस्रम् – तत्पुरुषः ।

· अस्पष्टम् = न स्पष्टम् – नञ्-समासः ।

· उरुपुरुषार्थात्मकम्

· पुरुषार्थः = पुरुषस्य अर्थः – तत्पुरुषः, सवर्णदीर्घसन्धिः।

· पुरुषार्थात्मा = पुरुषार्थः एव आत्मा यस्य सः – बहुव्रीहिः, सवर्णदीर्घसन्धिः।

· पुरुषार्थात्मकम् = पुरुषार्थात्मा तदीयम् – तद्धितः ।

· उरुपुरुषार्थात्मकम् = उरु पुरुषार्थात्मकम् – कर्मधारयः ।

· गुरुपवनपुरे

· गुरुपवनौ = गुरुश्च पवनश्च

· गुरुपवनपुरम् = गुरुपवनयोः पुरम्

छन्दः

· स्रग्धरा [https://nivedita2015.wordpress.com/chandas-2/#sragdharaa]

· “म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्।”

· प्रतिपादं २१ अक्षराणि । म-र-भ-न-य-य-य । “ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ।ऽऽ ।ऽऽ”

· प्रतिसप्तमाक्षरानन्तरं यतिः। म-र-भ-नैः यानां त्रयेण (य-य-य) त्रि(3)-मुनि(7)-यतियुता स्रग्धरा कीर्तिता अयम् ।

· 21 letters; pause after 7th, 14th, and 21st letters;

1

2

3

4

5

6

7

8

9

10

11

12

13

14

15

16

17

18

19

20

21

गु

गु

गु

गु

गु

गु

गु

गु

गु

गु

गु

गु

सा

न्द्रा

न्दा

बो

धा

त्म

नु

मि

तं

का

दे

शा

धि

भ्यां

नि

र्मु

क्तं

नि

त्य

मु

क्तं

नि

स्रे

नि

र्भा

स्य

मा

नम्

स्प

ष्टं

दृ

ष्ट

मा

त्रे

पु

रु

रु

पु

रु

षा

र्था

त्म

कं

ब्र

ह्म

त्वं

त्ता

द्भा

ति

सा

क्षा

द्गु

रु

पु

रे

न्त

भा

ग्यं

ना

नाम्

Word-Meaning

· गुरुपवनपुरे = In Guruvayoor (गुरुपवनपुर)

· तत्त्वम् = the reality (तत्त्व)

· तत् = that (तद्)

· ब्रह्म = Supreme Brahman (ब्रह्मन्)

· सान्द्रानन्दावबोधात्मकम् = one whose nature (आत्मक) is that of Intense (सान्द्र) Bliss (आनन्द) and Supreme Consciousness (अवबोध)

· अनुपमितम् = one who is not (न-) comparable (उपमित)

· निर्मुक्तम् = one who is totally free (निर्मुक्त)

· कालदेशावधिभ्याम् = from the periods (अवधि) or limitations of time (काल) and space (देश)

· नित्यमुक्तम् = one who is ever (नित्य) free (मुक्त)

· निर्भास्यमानम् = one who is being caused to be clearly evident (निर् + भा + णिञ् + शानच्), i.e., whose nature is being caused to be revealed

· निगमशतसहस्रेण = by the hundreds (शत) and thousands (सहस्र) of the Vedic (निगम) scriptural texts, i.e., by the innumerable scriptural texts

· अस्पष्टम् = one who is not (न) evidently clear (स्पष्ट)

· तावत् पुनः = but then (तावत्) again (पुनः)

· उरुपुरुषार्थात्मकम् = who is of the nature (आत्मक) of the ultimate (उरु) object or aim (अर्थ) of all human endeavours (पुरुष)

· दृष्टमात्रे = at once (मात्र), when seen (दृष्ट), i.e., upon realisation

· भाति = shines

· साक्षात् = evidently, i.e., right in front of our eyes

· हन्त = Oh (हन्त)! Indeed!

· जनानां भाग्यम् = (This is) mankind’s (जन) fortune (भाग्य)

1.2. श्लोकः

https://www.youtube.com/watch?v=Tzjlc8GW1r8

मूलपाठः

एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् ।एते तावद्वयं तु स्थिरतरमनसा विश्वपीड़ापहत्यैनिश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ २ ॥

पदच्छेदः

एवम्, दुर्लभ्यवस्तुनि, अपि, सुलभतया, हस्तलब्धे, यत्, अन्यत्, तन्वा, वाचा, धिया, वा, भजति, बत, जनः, क्षुद्रता, एव, स्फुटा, इयम्, एते, तावत्, वयम्, तु, स्थिरतरमनसा, विश्वपीड़ापहत्यै, निश्शेषात्मानम्, एनम्, गुरुपवनपुराधीशम्, एव, आश्रयामः

अन्वयार्थः

· दुर्लभ्यवस्तुनि = (तादृशं ब्रह्मतत्वं) दुर्लभवस्तु

· एवं सुलभतया हस्तलब्धे अपि = एवं सुखेन प्राप्ते (सति) अपि

· यत् जनः अन्यत् = यत् जनः अन्यवस्तु

· तन्वा वाचा धिया वा = शरीरेण मनसा बुद्ध्या वा

· भजति = आश्रयते

· बत = अहो

· इयं स्फुटा क्षुद्रता एव = एषा स्पष्टा क्षुद्रता एव

· एते वयं तु तावत् = वयं तु इदानीम्

· स्थिरतरमनसा = मनस्थैर्येण

· विश्वपीड़ापहत्यै = समस्तपीडानिवारणाय

· एनं निश्शेषात्मानं गुरुपवनपुराधीशम् एव = एनं सर्वात्मानं (परमात्मानं) गुरुवायुपुरेशम् एव

· आश्रयामः = शरणं गच्छामः

अन्वयः

इयं स्फुटा क्षुद्रता एव यत् एवं दुर्लभ्यवस्तुनि सुलभतया हस्तलब्धे (सति) अपि जनः अन्यत् तन्वा वाचा धिया वा भजति, बत । एते वयं तु तावत् स्थिरतरमनसा विश्वपीड़ापहत्यै निश्शेषात्मानम् एनं गुरुपवनपुराधीशम् एव आश्रयामः ।

अन्वयरचना

· बत !

· इयम् (अस्ति)

· का इयम् (अस्ति) ? क्षुद्रता एव

· कीदृशी क्षुद्रता ? स्फुटा

· किं क्षुद्रता अस्ति ? यत् ... भजति

· कः भजति ? जनः

· कया वा भजति ? तन्वा वाचा धिया वा

· किं भजति ? अन्यत्

· कदा भजति ? एवं हस्तलब्धे (सति) अपि

· कथं हस्तलब्धे ? सुलभतया

· कस्मिन् हस्तलब्धे (सति) ? दुर्लभ्यवस्तुनि

· तावत् आश्रयामः

· के आश्रयामः ? एते वयं तु

· कम् आश्रयामः ? एनं गुरुपवनपुराधीशम् एव

· कीदृशं गुरुपवनपुराधीशम् ? निश्शेषात्मानम्

· कस्यै आश्रयामः ? विश्वपीड़ापहत्यै

· केन आश्रयामः ? स्थिरतरमनसा

तात्पर्यम्

पुरुषार्थरूपं ब्रह्मतत्वम् अत्र भगवद्दर्शनेन सुखेन प्राप्नोति इति पूर्वमुक्तम् । तथापि जनः कायेन वाचा मनसा वा अन्यत् किमपि भजति इति स्पष्टक्षुद्रता एव, अहो ! आस्चर्यम् । किन्तु वयं तु तावत् अत्र गुरुवायुपुरे विराजमानं परमात्मस्वरूपं भगवन्तम् एव शरणं गच्छामः ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

· दुर्लभ्यवस्तुन्यपि = दुर्लभ्यवस्तुनि अपि - यण् सन्धिः ।

· यदन्यत् = यत् अन्यत् - जश्त्वसन्धिः ।

· क्षुद्रतैव = क्षुद्रता एव - वृद्धिसन्धिः ।

· स्फुटेयम् = स्फुटा इयम् – गुणसन्धिः ।

· तावद्वयम् = तावत् वयम् - जश्त्वसन्धिः ।

· एवाश्रयामः = एव आश्रयामः - सवर्णदीर्घसन्धिः ।

पदपरिचयः

· एवम् = अव्ययम् ।

· दुर्लभ्यवस्तुनि = वस्तु उ., नपुं., स.वि., ए.व. ।

· अपि = अव्ययम् ।

· सुलभतया = आ. स्त्री., तृ.वि., ए.व. ।

· हस्तलब्धे = अ., नपुं., स.वि., ए.व. ।

· यत् = अव्ययम् ।

· अन्यत् = अव्ययम् ।

· तन्वा = तनु उ., स्त्री., तृ.वि., ए.व. ।

· वाचा = वाच् च., स्त्री., तृ.वि., ए.व. ।

· धिया = धी ई., स्त्री., तृ.वि., ए.व. ।

· वा = अव्ययम् ।

· भजति = भज् “भजँ सेवायाम्” परस्मैपदं लट्लकारः प्रथमपुरुषैकवचनम् ।

· बत = अव्ययम् ।

· जनः = अ., पुं., प्र.वि., ए.व. ।

· क्षुद्रता = आ., स्त्री., प्र.वि., ए.व. ।

· एव = अव्ययम् ।

· स्फुटा = आ., स्त्री., प्र.वि., ए.व. ।

· इयम् = इदम् म., स्त्री., प्र.वि., ए.व. ।

· एते = एतद् द., सर्वनाम., पुं., प्र.वि., ब.व. ।

· तावत् = अव्ययम् ।

· वयम् = अस्मद् द., सर्वनाम., त्रि., प्र.वि., ब.व. ।

· तु = अव्ययम् ।

· स्थिरतरमनसा = स्थिरतरमनस् स., नपुं., तृ.वि., ए.व. ।

· विश्वपीड़ापहत्यै = विश्वपीड़ापहति इ., स्त्री., च.वि., ए.व. ।

· निश्शेषात्मानम् = निश्शेषात्मा न., नपुं., द्वि.वि., ए.व. ।

· एनम् = इदम् म., सर्वनाम पुं., द्वि.वि., ए.व. ।

· गुरुपवनपुराधीशम् = अ., पुं., द्वि.वि., ए.व. ।

· एव = अव्ययम् ।

· आश्रयामः = आङ् + श्रि “श्रिञ् सेवायाम्” परस्मैपदं लट्लकारः उत्तमपुरुषबहुवचनम् ।

छन्दः

· स्रग्धरा [https://nivedita2015.wordpress.com/chandas-2/#sragdharaa] विवरणं प्रथमे श्लोके दत्तमस्ति ।

Word-Meaning

· बत = Alas!

· इयम् = this is

· क्षुद्रता एव = definitely (एव) inferior and pitiable

· स्फुटा = one which is clear

· यत् = that

· जनः = people

· भजति = persue

· अन्यत् = other things

· तन्वा वाचा धिया वा = by body (तनु), words (वाक्) or (वा) mind (धी)

· दुर्लभ्यवस्तुनि अपि सुलभतया हस्तलब्धे = when even (अपि) the things (वस्तु) that are difficult_to_obtain (दुर्लभ्) have been obtained (लब्ध) in hand (हस्त)

· एवम् = in this way

· तावत् एते वयं तु = Whereas we these people

· आश्रयामः = are ones who have surrendered

· एनम् = to him

· गुरुपवनपुराधीशम् = to the Lord (अधीश) of Guruvaayur, the abode (पुर) of Brhaspati (गुरु) and Vaayu (पवन)

· निश्शेषात्मानम् = to one who is the soul (आत्मन्) of everyone without (निः) any exception (शेष)

· एव = alone

· स्थिरतरमनसा = with a mind (मनस्) that is extremely_resolved (स्थिरतर)

· विश्वपीड़ापहत्यै = for the sake of eradication (अपहति) of the sufferings (पीड़ा) of the world (विश्व)

1.3. श्लोकः

https://www.youtube.com/watch?v=pwJcLJcYhUc

मूलपाठः

सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत्भूतैर्भूतेन्द्रियैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् ।तत् स्वच्छ्त्वाद्यदाच्छादितपरसुखचिद्गर्भनिर्भासरूपंतस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ ३ ॥

पदच्छेदः

सत्त्वम्, यत्, तत्, पराभ्याम्, अपरिकलनतः, निर्मलम्, तेन, तावत्, भूतैः, भूतेन्द्रियैः, ते, वपुः, इति, बहुशः, श्रूयते, व्यासवाक्यम्, तत्, स्वच्छ्त्वात्, यत्, अच्छादितपरसुखचिद्गर्भनिर्भासरूपम्, तस्मिन्, धन्याः, रमन्ते, श्रुतिमतिमधुरे, सुग्रहे, विग्रहे, ते

अन्वयार्थः

· तत्पराभ्याम् = तस्मात् (सत्वात्) अन्याभ्यां, रजसा तमसा च

· अपरिकलनतः = सम्पर्कराहित्यात्

· निर्मलं यत् सत्त्वम् = परिशुद्धं यत् सत्त्वम्

· तेन = तेन सत्वगुणेन

· तावत् भूतैः = एव जातैः

· भूतेन्द्रियैः = भूतैः इन्द्रियैः च

· ते वपुः इति = भवतः शरीरम् इति

· बहुशः व्यासवाक्यं श्रूयते = अनेकवारं व्यासेन उक्तम् इति श्रूयते

· तत्स्वच्छ्त्वात् = तस्मात् निर्मलत्वात्

· यत् = यत्

· अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् = न छादितम् अत्यन्तसुखेन प्रकाशेन च अन्तर्भागे विराजमानम्

· श्रुतिमतिमधुरे = श्रवणे स्मरणे च मधुरे

· सुग्रहे = सुखेने ग्राह्ये

· ते तस्मिन् विग्रहे = भवतः तस्मिन् वपुषि

· धन्याः = भाग्यवन्तः

· रमन्ते = विलसन्ति

अन्वयः

तत्पराभ्याम् अपरिकलनतः यत् निर्मलं सत्त्वं (अस्ति) तेन तावत् भूतैः भूतेन्द्रियैः ते वपुः (अस्ति) इति व्यासवाकयं बहुशः श्रूयते । तत् स्वच्छ्त्वात् यत् अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् (अस्ति) तस्मिन् श्रुतिमतिमधुरे सुग्रहे ते विग्रहे धन्याः रमन्ते ।

अन्वयरचना

· श्रूयते

· कथं श्रूयते ? बहुशः

· किं श्रूयते ? व्यासवाकयम्

· किमिति व्यासवाकयम् ? (अस्ति) इति

· किम् अस्ति ? वपुः

· कस्य वपुः ? ते

· कैः वपुः अस्ति ? भूतेन्द्रियैः

· कीदृशैः भूतेन्द्रियैः ? भूतैः भूतेन्द्रियैः

· केन भूतैः भूतेन्द्रियैः ? तेन (सत्वेन) तावत्

· कीदृशेन तेन ? यत् निर्मलम् (अस्ति)

· किं निर्मलम् अस्ति ? सत्त्वम्

· कस्मात् कारणात् निर्मलम् ? अपरिकलनतः

· काभ्याम् अपरिकलनतः ? तत्पराभ्याम्

· रमन्ते

· के रमन्ते ? धन्याः

· कस्मिन् रमन्ते ? तस्मिन् विग्रहे

· कस्य विग्रहे ? ते

· कीदृशे विग्रहे ? श्रुतिमतिमधुरे

· पुनः कीदृशे विग्रहे ? सुग्रहे

· पुनः कीदृशे तस्मिन् विग्रहे ? यत् अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् (अस्ति)

· कस्मात् कारणात् अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् ? तत्स्वच्छ्त्वात्

तात्पर्यम्

शुद्धसत्वं निर्मलं भवति, यतः अस्य रजसा तमसा च सम्पर्कः नास्ति । तेन शुद्धसत्वेन उद्भूतैः पञ्चभुतैः दशेन्द्रियैः चैव भगवतः शरीरं अस्ति इति पुराणादिषु भगवता व्यासेन बहुवारं उक्तमिति ज्ञायते । निर्मलशुद्धसत्वात् अनावृतं तद्वपुः परमसुखरूपं चिद्रूपं अन्तःप्रकाशमानं च अस्ति। भगवत्कथाश्रवणं मननं च मधुरं भवति, स्वरुपध्यानं सुलभं च। भाग्यवन्तः भगगवत्स्वरूपे रमन्ते ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

· पराभ्यामपरिकलनतो निर्मलम् = अपरिकलनतः निर्मलम् - विसर्गसन्धिः उकारादेशः, गुणसन्धिः

· भूतैर्भूतेन्द्रियैस्ते

· भूतैर्भूतेन्द्रियैः = भूतैः भूतेन्द्रियैः - विसर्गसन्धिः रेफादेशः

· भूतेन्द्रियैस्ते = भूतेन्द्रियैः ते - विसर्गसन्धिः सकारादेशः

· वपुरिति = वपुः इति - विसर्गसन्धिः रेफादेशः

· तत्स्वच्छ्त्वाद्यच्छादितपरसुखचिद्गर्भनिर्भासरूपम्

· तत्स्वच्छ्त्वाद्यत् = तत्स्वच्छ्त्वात् यत् - जश्त्वसन्धिः

· यदाच्छादितपरसुखचिद्गर्भनिर्भासरूपम् = यत् अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् - जश्त्वसन्धिः

· धन्या रमन्ते = धन्याः रमन्ते - विसर्गसन्धिः लोपः

पदपरिचयः

· पराभ्याम् = पर अ., नपुं., प.वि., द्वि.व.

· अपरिकलनतः = अव्ययम्

· वपुः = वपुस् स., नपुं., प्र.वि., ए.व.

· श्रूयते = श्रु “श्रु श्रवणे” कर्मणिप्रयोगः आत्मनेपदं लट्लकारः प्रथमपुरुषैकवचनम्

· रमन्ते = रम् “रमुँ क्रीडायाम्” आत्मनेपदं लट्लकारः प्रथमपुरुषबहुवचनम्

पदविवरणम्

· अपरिकलनतः = न परिकलनम् अपरिकलनं, तस्मात् इत्यर्थे तसिल्प्रत्ययः।

· निर्मलम् = निर्गतं मलं यस्मात् तत् ।

· भूतेन्द्रियैः = भूतानि च इन्द्रियाणि च, तैः

· व्यासवाक्यम् = व्यासस्य वाक्यम्

· तत्स्वच्छ्त्वात्

· स्वच्छम् = सुष्ठु अच्छम्

· स्वच्छत्वम् = स्वच्छ्स्य भावः

· तत्स्वच्छ्त्वात् = तत् स्वच्छत्वं, तस्मात्

· अच्छादितपरसुखचिद्गर्भनिर्भासरूपम्

· परसुखम् = परं च तत् सुखं च

· परसुखचित् = परसुखं च तत् चित् च

· अच्छादितम् = न छादितम्

· अच्छादितपरसुखचित् = अच्छादितं च तत् परसुखचित्

· गर्भनिर्भासम् = गर्भे निर्भासम्

· अच्छादितपरसुखचित्गर्भनिर्भासम् = अच्छादितपरसुखचित् च तत् गर्भनिर्भासं च

· अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् = अच्छादितपरसुखचित्गर्भनिर्भासं च तत् रूपं च

छन्दः

· स्रग्धरा [https://nivedita2015.wordpress.com/chandas-2/#sragdharaa] विवरणं प्रथमे श्लोके दत्तमस्ति ।

Word-Meaning

· व्यासवाक्यम् = The sayings (वाक्य) of Saga Vyasa (व्यास)

· श्रूयते = is heard

· बहुशः = repeatedly

· इति = that

· ते वपुः = your body (वपुस्)

· भूतेन्द्रियैः = is made with all with the five elements (भूत) and with the associated senses (इन्द्रिय)

· भूतैः = which are created

· तेन तावत् = only by that

· यत् सत्त्वम् (अस्ति) = that sattva which is there

· निर्मलम् = which is pure (निर्मल), devoid of (निर्) impurity (मल)

· अपरिकलनतः = due to not (न) mixing (परिकलन)

· पराभ्याम् = with the other two (पर) (namely Rajas and Tamas)

· धन्याः = The fortunate ones 

· रमन्ते = revel

· ते विग्रहे = in your figure (विग्रह)

· श्रुतिमतिमधुरे = in that which is delightful (मधुर) to the ears (श्रुति) and the mind (मति)

· सुग्रहे = that which is easily graspable (सु-ग्रह)

· तस्मिन् = in that

· यत् अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् = that which is a form (रूप) that is supremely resplendent (निर्भास) Brahman, because of unobstructed (अच्छादित) supreme (पर) bliss (सुख) and consciousness (चित्) within (गर्भ)

· तत्स्वच्छ्त्वात् = due to that (तत्) purity (स्वच्छ्त्व)

1.4. श्लोकः

https://www.youtube.com/watch?v=5Lz3DIuk7I4

मूलपाठः

निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपेनिर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्माकस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥ ४ ॥

पदच्छेदः

निष्कम्पे, नित्यपूर्णे, निरवधिपरमानन्दपीयूषरूपे, निर्लीनानेकमुक्तावलिसुभगतमे, निर्मलब्रह्मसिन्धौ, कल्लोलोल्लासतुल्यम्, खलु, विमलतरम्, सत्त्वम्, आहुः, तदात्मा, कस्मात्, नो, निष्कलः, त्वम्, सकलः, इति, वचः, त्वत्कलासु, एव, भूमन्

अन्वयार्थः

· विमलतरं सत्त्वम् = परिशुद्धं सत्त्वम्

· निष्कम्पे = कम्परहिते, निश्चले

· नित्यपूर्णे = सदा पूर्णे

· निरवधिपरमानन्दपीयूषरूपे

· निरवधिः = अनन्तः

· परमानन्दः = अतीवानन्दः

· पीयूषरूपम् = अमृतरूपम्

· निर्लीनानेकमुक्तावलिसुभगतमे

· निर्लीनः = विलीनः

· अनेक = बहवः

· मुक्ताः = (समुद्रस्य पक्षे) मौक्तिकाः / (ब्रह्मणः पक्षे) निर्मुक्ताः

· आवलिः = समूहः

· सुभगतमम् = स्पृहणीयम्, अत्यन्तकमनीयम्

· निर्मलब्रह्मसिन्धौ = शुद्धब्रहसमुद्रे

· कल्लोलोल्लासतुल्यम् = तरङ्गानाम् उल्लासतुल्यम्

· आहुः खलु = वदन्ति खलु

· तदात्मा त्वम् = तादृशसत्वस्वरूपः भवान्

· कस्मात् नो निष्कलः = केन कारणेन न निष्कलः ? (निष्कलः एव)

· भूमन् = सर्वव्यापिन्

· सकलः इति वचः = सकलः इति उक्तिः

· त्वत्कलासु एव = भगवतः अवतारेषु एव

अन्वयः

विमलतरं सत्त्वं, निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ, कल्लोलोल्लासतुल्यम् (अस्ति) (इति) (पण्डिताः) आहुः खलु । तदात्मा (त्वं) कस्मात् नो निष्कलः (असि) । हे भूमन् ! त्वं सकलः इति वचः त्वत्कलासु एव (भवति) ।

अन्वयरचना

· (पण्डिताः) आहुः खलु

· किमिति आहुः ? कल्लोलोल्लासतुल्यम् (अस्ति) (इति)

· किं कल्लोलोल्लासतुल्यम् (अस्ति) ? सत्त्वम्

· कीदृशं सत्त्वम् ? विमलतरम्

· कस्मिन् कल्लोलोल्लासतुल्यम् (अस्ति) ? निर्मलब्रह्मसिन्धौ

· कीदृशे निर्मलब्रह्मसिन्धौ ? निष्कम्पे

· पुनः कीदृशे निर्मलब्रह्मसिन्धौ ? नित्यपूर्णे

· पुनः कीदृशे निर्मलब्रह्मसिन्धौ ? निरवधिपरमानन्दपीयूषरूपे

· पुनः कीदृशे निर्मलब्रह्मसिन्धौ ? निर्लीनानेकमुक्तावलिसुभगतमे

· कस्मात् (त्वं) नो निष्कलः (असि) ?

· कीदृशः त्वम् ? तदात्मा

· (हे) भूमन् !

· (भवति)

· किं भवति ? वचः

· किमिति वचः ? त्वं सकलः इति

· कासु भवति ? त्वत्कलासु एव

तात्पर्यम्

शुद्धब्रह्म निश्चलसमुद्रम् इव भवति । सदा पूर्णे तस्मिन् समुद्रे अनेकमुक्तावलयः विलीनाः भवन्ति । समुद्रे तरङ्गोल्लासः भवति । शुद्धसत्वं तु तादृशे ब्रह्मसमुद्रे जायमानः तारङ्गोल्लासः इव अस्ति इति पण्डिताः वदन्ति । शुद्धसत्वस्वरूपः भगवान् निष्कलः एव, भगवतः सकलत्वं तु ब्रह्माविष्णुमहेश्वराणां तथा भगवदवताराणां च विषये एव भवति ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

· आहुस्तदात्मा = आहुः तदात्मा - सकारादेशः । 

· कस्मान्नो = कस्मात् नो - ङमुडागमसन्धिः ।

· निष्कलस्त्वम् = निष्कलः त्वम् - सकारादेशः । 

· सकल इति = सकलः इति - लोपः ।

· वचस्त्वत्कलास्वेव

· वचस्त्वत्कलासु = वचः त्वत्कलासु - सकारादेशः । 

· वचस्त्वत्कलास्वेव = त्वत्कलासु एव - यण् सन्धिः ।

पदपरिचयः

· आहुः = ब्रू “ब्रूञ् व्यक्तायां वाचि” परस्मैपदं लट्लकारः प्रथमपुरुषबहुवचनम्

· तदात्मा = तदात्मन् न., पुं., प्र.वि., ए.व.

· त्वत्कलासु = त्वत्कला आ., स्त्री., स.वि., ब.व.

· भूमन् = भूमन् न., पुं., सम्बो.प्र.वि., ए.व.

पदविवरणम्

· नो = न+उ, निषेदे

· निरवधिपरमानन्दपीयूषरूपे

· निरवधिपरमानन्दः = निरवधिश्च परमानन्द च ।

· निरवधिपरमानन्दपीयूषम् = निरवधिपरमानन्दञ्च तत् पीयूषञ्च च ।

· निरवधिपरमानन्दपीयूषरूपे = निरवधिपरमानन्दपीयूषञ्च तत् रूपं च, तस्मिन् ।

· निर्लीनानेकमुक्तावलिसुभगतमे

· मुक्तावलयः = मुक्तानाम् आवलयः ।

· अनेकमुक्तावलयः = अनेकाः मुक्तावलयः ।

· निर्लीनानेकमुक्तावलयः = निर्लीनाः अनेकमुक्तावलयः ।

· निर्लीनानेकमुक्तावलिसुभगतमे = निर्लीनानेकमुक्तावलिभिः सुभगतमम्, तस्मिन् ।

· निर्लीनानेकमुक्तावलिसुभगतमे

· अनेकमुक्ताः = अनेकाः मुक्ताः ।

· अनेकमुक्तावलिः = अनेकमुक्तानाम् आवलिः ।

· निर्लीनानेकमुक्तावलयः = निर्लीनः अनेकमुक्तावलिः ।

· निर्लीनानेकमुक्तावलिसुभगतमे = निर्लीनानेकमुक्तावलिना सुभगतमम्, तस्मिन् ।

· कल्लोलोल्लासतुल्यम्

· कल्लोलोल्लासः = कल्लोलस्य उल्लासः

· कल्लोलोल्लासतुल्यम् = कल्लोलोल्लासस्य तुल्यम्

छन्दः

· स्रग्धरा [https://nivedita2015.wordpress.com/chandas-2/#sragdharaa] विवरणं प्रथमे श्लोके दत्तमस्ति ।

Word-Meaning

· (पण्डिताः) आहुः खलु = Indeed the wise men say

· (इति) = that

· निर्मलब्रह्मसिन्धौ = in the pure (निर्मल) ocean (सिन्धु) of Brahma (ब्रह्म)

· निष्कम्पे = in that which is vibrationless

· नित्यपूर्णे = in that which is always complete

· निरवधिपरमानन्दपीयूषरूपे = in that which is the personification (रूप) of the unlimited (निरवधि) nectarian (पीयूष) supreme (परम) bliss (आनन्द)

· निर्लीनानेकमुक्तावलिसुभगतमे = in that which is the most charming and likeable (सुभगतम), due to the numerous (अनेक) collection (आवलि) of pearls (मुक्त) (in the context of ocean) or the liberated ones (मुक्त) (in the context of Brahman), that are immersed (निर्लीन) in it

· सत्त्वम् = the Sattva

· विमलतरम् = which is extremely pure

· (अस्ति) = is

· कल्लोलोल्लासतुल्यम् = like (तुल्य) the playful rising up (उल्लास) of the waves (कल्लोल)

· हे भूमन् = O Omnipresent One!

· कस्मात् = why

· (त्वम्) = you

· तदात्मा = the one having the nature of that (Sattva)

· नो निष्कलः (असि) = are not Nishkala or Poornavaraata, the complete incarnation

· वचः = The saying

· इति = that

· त्वम् = you are

· सकलः = a sakala or Amshavatara, the incarnation associated with some part

· त्वत्कलासु एव (भवति) = (applies to) your incarnations only

1.5. श्लोकः मूलपाठः

निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यांतेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले ।तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपंस त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपम् ॥५॥

पदच्छेदः

निर्व्यापारः, अपि, निष्कारणम्, अज, भजसे, यत्, क्रियाम्, ईक्षणाख्याम्, तेन, एव, उदेति, लीना, प्रकृतिः, असतिकल्पा, अपि, कल्पादिकाले, तस्याः, संशुद्धम्, अंशम्, कम्, अपि, तम्, अतिरोधायकम्, सत्त्वरूपम्, सः, त्वम्, धृत्वा, दधासि, स्वमहिमविभवाकुण्ठ, वैकुण्ठ, रूपम्

अन्वयार्थः

· अज = जन्मरहित

· निर्व्यापारः अपि = निश्चेष्टः अपि

· निष्कारणम् = (किमपि) कारणं विना

· ईक्षणाख्यां क्रियां भजसे यत् = ईक्षणं नाम चेष्टाम् अनुवर्तसे यत्

· तेन एव = तेन एव

· असतिकल्पा अपि = यद्यपि नास्ति इति भासते

· लीना प्रकृतिः = (त्वयि) विलीना प्रकृतिः (माया)

· कल्पादिकाले = कल्पारम्भकाले

· उदेति = जागरति, उत्तिष्ठति

· स्वमहिमविभवाकुण्ठ = स्वस्य अपारमहिमया कदापि न रुद्धः, सम्बुद्धौ

· वैकुण्ठ = वैकुण्ठवासिन्

· सः त्वम् = तादृशः (निर्व्यापारः) भवान्

· तस्याः = तस्याः प्रकृतेः

· अतिरोधायकम् = न आच्छादकम्

· संशुद्धं तं सत्त्वरूपं कम् अपि अंशं धृत्वा = निर्मलं सत्त्वरूपं कमपि अंशं स्वीकृत्य

· रूपं दधासि = रूपं धरसि (सकलो भवसि)

अन्वयः

(हे) अज । (त्वं) निर्व्यापारः अपि निष्कारणम् ईक्षणाख्यां क्रियां भजसे यत्, तेन एव असतिकल्पा अपि (त्वयि) लीना प्रकृतिः कल्पादिकाले उदेति । हे स्वमहिमविभवाकुण्ठ ! हे वैकुण्ठ ! सः त्वं तस्याः अतिरोधायकं संशुद्धं तं सत्त्वरूपं कम् अपि अंशं धृत्वा रूपं दधासि ।

अन्वयरचना

· (हे) अज ! उदेति

· का उदेति ? प्रकृतिः

· कीदृशी प्रकृतिः ? असतिकल्पा अपि

· पुनः कीदृशी प्रकृतिः ? (त्वयि) लीना

· कदा उदेति ? कल्पादिकाले

· केन कारणेन उदेति ? तेन एव

· केन तेन ? यत् (त्वं) भजसे

· कथं भजसे ? निष्कारणम्

· कीदृशः त्वम् ? निर्व्यापारः अपि

· कां भजसे ? क्रियाम्

· कीदृशीं क्रियाम् ? ईक्षणाख्याम्

· हे स्वमहिमविभवाकुण्ठ

· हे वैकुण्ठ

· दधासि

· कः दधासि ? सः त्वम्

· किं दधासि ? रूपम्

· किं कृत्वा दधासि ? धृत्वा

· कं धृत्वा ? अंशम्

· कीदृशम् अंशम् ? कम् अपि

· पुनः कीदृशम् अंशम् ? संशुद्धम्

· पुनः कीदृशम् अंशम् ? तं सत्त्वरूपम्

· पुनः कीदृशम् अंशम् ? अतिरोधायकम्

· कस्याः अंशम् ? तस्याः

तात्पर्यम्

भगवतः सकलत्वं वर्णयति अत्र । निष्कलः भवान् स्वतः निर्व्यापारः अपि कल्पादौ ईक्षणं नाम क्रियाम् अनुवर्तते । (एषा एव भगवतः सिसृक्षा ।) तेन ईक्षणेन, दर्शनेन असतिकल्पा अपि भवति विलीना मायाप्रकृतिः जागरति । हे अनिरुद्ध ! विष्णो ! तस्याः प्रकृतेः निर्मलं सत्वरूपम् अतिरोधायकं भवति, यस्य कमपि अंशं स्वीकृत्य भवान् रूपं धरति, सकलो भवति च ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

· निर्व्यापारोऽपि = निर्व्यापारः अपि - विसर्गसन्धिः उकारादेशः, गुणसन्धिः, पूर्वरूपसन्धिः

· तेनैवोदेति

· तेनैव = तेन एव - वृद्धिसन्धिः

· एवोदेति = एव उदेति - गुणसन्धिः

· प्रकृतिरसतिकल्पा = प्रकृतिः असतिकल्पा - रेफादेशः ।

· असतिकल्पाऽपि = असतिकल्पा अपि - सवर्णदीर्घसन्धिः ।

· स त्वम् = सः त्वम् - विसर्गसन्धिः लोपः ।

पदपरिचयः

· उदेति = उत् + इ “इण् गतौ” परस्मैपदम् लट्लकारः प्रथमपुरुषैकवचनम्

· दधासि = धा “डुधाञ् धारणपोषणयोः” परस्मैपदम् लट्लकारः मध्यमपुरुषैकवचनम्

· प्रकृतिः = प्रकृति इ. स्त्री., प्र.वि., ए.व.

· कम् = किम् म. पुं., द्वि.वि., ए.व.

· यत् = यद् द. पुं., प्र.वि., ए.व.

· तेन = तद् द. पुं., तृ.वि., ए.व.

· तस्याः = तद् द. स्त्री., ष.वि., ए.व.

· भजसे = भज् “भजँ सेवायाम्” आत्मनेपदम् लट्लकारः मध्यमपुरुषैकवचनम्

पदविवरणम्

· https://naaraayaneeyam.wordpress.com/2012/04/24/1-5/

· निर्व्यापारः = निर्गतः व्यापारः यस्मात् सः

· निष्कारणम् = निर्गतं कारणं यस्मात् तत् । क्रियाविशेषणम्

· अज = न जायते इति अजः, सम्बुदौ

· ईक्षणाख्याम् = ईक्षणम् आख्या यस्याः सा ईक्षणाख्या, ताम्

· धृत्वा = धृ “धृञ् धारणे” + क्त्व

· असतिकल्पा

· असती = न सती असती

· असतिकल्पा = ईषदसमाप्ता असती असतिकल्पा (कल्प is added by the sutra 5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः। Note that असती becomes असति by 6-3-43 घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः।)

· कल्पादिकाले

· आदिकालः = आदिः च असौ कालः च

· कल्पादिकाले = कल्पस्य आदिकालः कल्पादिकालः, तस्मिन्

· संशुद्धम् = संयक् शुद्धः संशुद्धः, तम्

· अतिरोधायकम्

· धायकम् = धा “डुधाञ् धारणपोषणयोः” + ण्वुल् 

· तिरोधायकम् = तिरः दधाति इति तिरोधायकम्

· अतिरोधायकम् = न तिरोधायकं अतिरोधायकम्

· सत्त्वरूपम् = सत्त्वम् रूपम् यस्य सः सत्त्वरूपः, तम्

· स्वमहिमविभवाकुण्ठ

· स्वमहिमा = स्वस्य महिमा

· स्वमहिमविभवः = स्वमहिमा एव विभवः

· अकुण्ठः = न कुण्ठः

· स्वमहिमविभवाकुण्ठ = स्वमहिमविभवेन अकुण्ठः स्वमहिमविभवाकुण्ठः, सम्बुदौ

छन्दः

· स्रग्धरा [https://nivedita2015.wordpress.com/chandas-2/#sragdharaa] विवरणं प्रथमे श्लोके दत्तमस्ति ।

Word-Meaning

· (हे) अज = O Birth-less one !

· कल्पादिकाले = At the time of start (आदि) of Kalpa (कल्प), the new cycle of creation

· प्रकृतिः = nature i.e., maya

· (त्वयि) लीना = one who is latent or dissolved in you

· असतिकल्पा अपि = though she is one who appears to be non-existent

· उदेति = arises or manifests

· तेन एव = just (एव) due to that (तेन)

· भजसे यत् = that (यद्) you engage (भज) in

· ईक्षणाख्यां क्रियाम् = the activity (क्रिया) called eekshana (ईक्षण) or seeing

· निष्कारणम् = without (निः) any reason (कारण)

· (त्वं) निर्व्यापारः अपि = though (अपि) you are one without (निर्) any activities (व्यापार)

· हे स्वमहिमविभवाकुण्ठ = O one who is always unobstructed (अकुण्ठ) due to your (स्व) abundant (महिम) glory (विभवा)

· वैकुण्ठ = O Vishnu, one who lives in Vaikuntha

· सः त्वम् = You, that person

· दधासि = take or assume

· रूपम् = the form

· धृत्वा = wearing

· तस्याः संशुद्धं कम् अपि अंशं = some absolutely pure (संशुद्ध) part (अंश) of her (i.e., Maya),

· अतिरोधायकम् = that which is non-obstructing

· तम् सत्त्वरूपम् = that saattvik form

1.6. श्लोकः

मूलपाठः

तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारंलावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् ।लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तःसिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥६॥

पदच्छेदः

तत्, ते, प्रत्यग्रधाराधरललितकलायावलीकेलिकारम्, लावण्यस्य, एकसारम्, सुकृतिजनदृशाम्, पूर्णपुण्यावतारम्, लक्ष्मीनिश्शङ्कलीलानिलयनम्, अमृतस्यन्दसन्दोहम्, अन्तः, सिञ्चत्, सञ्चिन्तकानाम्, वपुः, अनुकलये, मारुतागारनाथ

अन्वयार्थः

· मारुतागारनाथ = वायुपुरेश, गुरुवायुपुरेश

· प्रत्यग्रधाराधरललितकलायावलीकेलिकारम् = नूतनमेघानां सुन्दरकलायकुसुमसमूहानां च विलासं यत् करोति

· लावण्यस्य एकसारम् = सौन्दर्यस्य उत्तमं सारम्

· सुकृतिजनदृशाम् = सुकृतिजनानां नयनानाम्

· पूर्णपुण्यावतारम् = पुण्यस्य पूर्णावतारम्

· लक्ष्मीनिश्शङ्कलीलानिलयनम् = लक्ष्मीदेव्याः सङ्कोचरहितलीलास्थानम्

· सञ्चिन्तकानाम् अन्तः = ध्याननिरतानाम् अन्तः, मनसि

· अमृतस्यन्दसन्दोहम् = अमृतधाराप्रवाहम्

· सिञ्चत् = वर्षत्

· तत् ते वपुः = तादृशं भवतः शरीरम्

· अनुकलये = ध्यायामि

अन्वयः

(हे) मारुतागारनाथ । प्रत्यग्रधाराधरललितकलायावलीकेलिकारं लावण्यस्य एकसारं सुकृतिजनदृशां पूर्णपुण्यावतारं लक्ष्मीनिश्शङ्कलीलानिलयनं सञ्चिन्तकानाम् अन्तः अमृतस्यन्दसन्दोहं सिञ्चत् तत् ते वपुः (अहम्) अनुकलये ।

अन्वयरचना

· (हे) मारुतागारनाथ ।

· (अहम्) अनुकलये

· किम् अनुकलये ? तत् वपुः

· कस्य वपुः ? ते

· किं कुर्वत् वपुः ? सिञ्चत्

· कं सिञ्चत् ? अमृतस्यन्दसन्दोहम्

· कुत्र सिञ्चत् ? अन्तः

· केषाम् अन्तः ? सञ्चिन्तकानाम्

· कीदृशं वपुः ? प्रत्यग्रधाराधरललितकलायावलीकेलिकारम्

· पुनः कीदृशं वपुः ? एकसारम्

· कस्य एकसारम् ? लावण्यस्य

· पुनः कीदृशं वपुः ? पूर्णपुण्यावतारम्

· केषां पूर्णपुण्यावतारम् ? सुकृतिजनदृशाम्

· पुनः कीदृशं वपुः ? लक्ष्मीनिश्शङ्कलीलानिलयनम्

तात्पर्यम्

भगवत्स्वरूपवर्णना दृश्यते अस्मिन् श्लोकेऽपि । भगवद्वपुः नूतनमेघानां सुन्दरकलायकुसुमसमुहस्य च इव सुन्दरमस्ति । लावण्यस्य उत्तमसारं, सुकृतिजनानां पुरतः तेषां पुण्यस्य पूर्णावतारं तद्वपुः सदा ध्याननिरतानाम् अन्तःकरणे अमृतधाराप्रवाहं वर्षति । तस्मिन्नेव वपुषि लक्ष्मीदेवी निश्शङ्कं लीलाविलासं करोति । हे गुरुवायुपुरेश ! अहं तादृशं भवत्स्वरूपं ध्यायामि ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

· लावण्यस्यैकसारम् = लावण्यस्य एकसारम् - वृद्धिसन्धिः ।

· वपुरनुकलये = वपुः अनुकलये - विसर्गसन्धिः रेफादेशः ।

पदपरिचयः

· अनुकलये = अनु + कल “कल गतौ सङ्ख्याने च” उभयपदी धातुः, आत्मनेपदम् लट्लकारः उत्तमपुरुषैकवचनम्

· सुकृतिजनदृशाम् = सुकृतिजनदृश् श., स्त्री., ष.वि., ब.व. । दृक् इति प्र.वि., ए.व. रूपम् ।

· सिञ्चत् = सिञ्चत् त., नपुं., प्र.वि., ए.व.

· वपुः = वपुस् स., नपुं., द्वि.वि., ए.व.

पदविवरणम्

· प्रत्यग्रधाराधरललितकलायावलीकेलिकारम्

· धाराधरः = धारां धरति इति

· प्रत्यग्रधाराधरः = प्रत्यग्रः च असौ धाराधरः च

· ललितकलायः = ललितः कलायः

· ललितकलायावली = ललितकलायानाम् आवली

· केलिकारम् = केलिं करोति इति

· प्रत्यग्रधाराधरललितकलायावलीः = प्रत्यग्रधाराधराः च ललितकलायावली च

· प्रत्यग्रधाराधरललितकलायावलीकेलिकारम् = प्रत्यग्रधाराधरललितकलायावलीनां केलिकारम्

· एकसारम् = एकं सारम्

· सुकृतिजनदृशाम्

· सुकृतिनः = सुकृतम् एषाम् अस्ति इति सुकृतिनः

· सुकृतिजनः = सुकृतिः जनः

· सुकृतिजनाः = सुकृतिनः च ते जनाः च

· सुकृतिजनादृशाम् = सुकृतिजनानां दृशः सुकृतिजनदृशः, तासाम्

· पूर्णपुण्यावतारम्

· पूर्णपुण्यम् = पूर्णं च तत् पुण्यं च

· पूर्णपुण्यावतारम = पूर्णपुण्यस्य अवतारः –

· लक्ष्मीनिश्शङ्कलीलानिलयनम्

· निश्शङ्का = निर्गता शङ्का यस्याः सा

· निश्शङ्कलीला = निश्शङ्का च सा लीला च

· लक्ष्मीनिश्शङ्कलीला = लक्ष्म्याः निश्शङ्कलीला

· निलयनम् = निलीयते अत्र इति

· लक्ष्मीनिश्शङ्कलीलानिलयनम् = लक्ष्मीनिश्शङ्कलीलायाः निलयनम्

· अमृतस्यन्दसन्दोहम्

· अमृतस्यन्दः = अमृतस्य स्यन्दः

· अमृतस्यन्दसन्दोहम् = अमृतस्यन्दस्य सन्दोहः, तम्

· मारुतागारनाथ

· अगारम् =

· मारुतागारम् = मारुतस्य अगारम्

· मारुतागारनाथ = मारुतागारस्य नाथ

छन्दः

· स्रग्धरा [https://nivedita2015.wordpress.com/chandas-2/#sragdharaa] विवरणं प्रथमे श्लोके दत्तमस्ति ।

Word-Meaning

· (हे) मारुतागारनाथ = O Lord of Guruvaayur

· (अहम्) अनुकलये = I meditate upon

· तत् ते वपुः = that body of yours

· प्रत्यग्रधाराधरललितकलायावलीकेलिकारम् = which ridicules (केलिकार) the fresh (प्रत्यग्र) rain-bearing (धारा-धर) clouds (धाराधर) and the bunch (आवली) of lovely (ललित) dark-colored kalaaya (कलाय) flowers, due to its superior dark-colored beauty

· लावण्यस्य एकसारम् = which is the ultimate (एक) essence (सार) of beauty (लावण्य)

· सुकृतिजनदृशां पूर्णपुण्यावतारम् = which is the full (पूर्ण) manifestation (अवतार) of the virtues (पुण्य) in front of the eyes (दृश्) of virtuous (सुकृति) people (जन)

· लक्ष्मीनिश्शङ्कलीलानिलयनम् = which is the location for Lakshmi to play without any worry

· सिञ्चत् = which is raining

· सञ्चिन्तकानाम् अन्तः = in the minds of those who are meditating

· अमृतस्यन्दसन्दोहम् = the combined flow of emerging nectar

1.7. श्लोकः मूलपाठः

कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा-मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने ।नोचेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रंनेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥७॥

पदच्छेदः

कष्टा, ते, सृष्टिचेष्टा, बहुतरभवखेदावहा, जीवभाजाम्, इति, एवम्, पूर्वम्, आलोचितम्, अजित, मया, न, एवम्, अद्य, अभिजाने, नो, चेत्, जीवाः, कथम्, वा, मधुरतरम्, इदम्, त्वद्वपुः, चिद्रसार्द्रम्, नेत्रैः, श्रोत्रैः, च, पीत्वा, परमरससुधाम्भोधिपूरे, रमेरन्

अन्वयार्थः

· जीवभाजाम् = जीविनाम्

· बहुतरभवखेदावहा = अनेकसंसारदुःखप्रदायिनी

· ते सृष्टिचेष्टा = भवतः सृष्टिक्रिया

· कष्टा = दुस्सहा

· पूर्वम् आलोचितम् = पूर्वं चिन्तितम्

· अद्य न एवम् अभिजाने = इदानीम् एवं न चिन्तयामि

· नो चेत् = सृष्टिं न करोति चेत्

· जीवाः कथं वा = जीविनः कथं वा

· चिद्रसार्द्रम् = ज्ञानानन्दमयम्, चिदानन्दाभ्याम् आर्द्रम्

· मधुरतरम् इदं त्वद्वपुः = अतीवमधुरम् एतत् भवतः शरीरम्

· नेत्रैः श्रोत्रैः च पीत्वा = नेत्रैः श्रोत्रैः च पानं कृत्वा (साक्षाद्दर्शनेन कथाश्रवणेन च)

· परमरससुधाम्भोधिपूरे रमेरन् = परमानन्दामृतसागरप्रवाहे रमेरन्

अन्वयः

(हे) अजित । जीवभाजां बहुतरभवखेदावहा ते सृष्टिचेष्टा कष्टा (अस्ति) इति एवं मया पूर्वम् आलोचितम् (आसीत्) । अद्य (अहम्) एवं न अभिजाने । नो चेत् जीवाः कथं वा चिद्रसार्द्रं मधुरतरम् इदं त्वद्वपुः नेत्रैः श्रोत्रैः च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ।

अन्वयरचना

· (हे) अजित ।

· आलोचितम् (आसीत्)

· कया आलोचितम् ? मया

· कदा आलोचितम् ? पूर्वम्

· कथम् आलोचितम् ? एवम्

· किमिति आलोचितम् ? कष्टा (अस्ति) इति

· का कष्टा ? सृष्टिचेष्टा

· कस्य सृष्टिचेष्टा ? ते

· कीदृशी सृष्टिचेष्टा ? बहुतरभवखेदावहा

· केषां बहुतरभवखेदावहा ? जीवभाजाम्

· (अहं) न अभिजाने

· कथं न अभिजाने ? एवम्

· कदा न अभिजाने ? अद्य

· नो चेत् कथं वा रमेरन्

· के रमेरन् ? जीवाः

· कस्मिन् रमेरन् ? परमरससुधाम्भोधिपूरे

· किं कृत्वा रमेरन् ? पीत्वा

· किं पीत्वा ? इदं त्वद्वपुः

· कीदृशं त्वद्वपुः ? मधुरतरम्

· पुनः कीदृशं त्वद्वपुः ? चिद्रसार्द्रम्

· कैः पीत्वा ? नेत्रैः श्रोत्रैः च

तात्पर्यम्

(भगवत्स्वरूपदर्शनं कथाश्रवणं च भक्तानां कृते परमानन्दप्रदायकं भवति इति वर्णयति अस्मिन् श्लोके।)

भवता सृष्टाः जीविनः संसारदुःखम् अनुभवन्ति, अतः भवतः सृष्टिक्रिया कष्टा इति मया पूर्वं चिन्तितम् । किन्तु इदानीम् अहम् एवं न चिन्तयामि । भगवत्स्वरूपं ज्ञानानन्दमयम् अतिमधुरं च भवति । यदि सृष्टिः न भवति चेत् जीवानां भगवद्दर्शनश्रवणसौभाग्यं कथं भवति, कथं वा ते तज्जन्ये परमानन्दामृतसागरे रमन्ति च ।

(प्रथमश्लोके "हन्त ! भाग्यं जनानम्" इति अस्ति । तस्य समर्थनम् अत्र।)

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

· इत्येवम् = इति एवम् - यण् सन्धिः

· नैवम् = न एवम् - वृद्धिसन्धिः

· अद्याभिजाने = अद्य अभिजाने - सवर्णदीर्घसन्धिः

· चेज्जीवाः = चेत् जीवाः - श्चुत्वसन्धिः, जश्त्वसन्धिः

· त्वद्वपुश्चिद्रसार्द्रम् = त्वद्वपुः चिद्रसार्द्रम् - विसर्गसन्धिः सकारादेशः, श्चुत्वसन्धिः

· श्रोत्रैश्च = श्रोत्रैः च - विसर्गसन्धिः सकारादेशः, श्चुत्वसन्धिः

पदपरिचयः

· अभिजाने = अभि + ज्ञा “ज्ञा अवबोधने” उभयपदी धातुः, आत्मनेपदम् लट्लकारः उत्तमपुरुषैकवचनम्

· रमेरन् = रम् “रमुँ क्रीडायाम्” आत्मनेपदम् विधिलिङ्लकारः प्रथमपुरुषबहुवचनम्

· जीवभाजाम् = जीवभाज् ज. पुं., ष.वि., ब.व. । जीवभाक् इति प्र.वि. रूपम् ।

पदविवरणम्

· सृष्टिचेष्टा = सृष्टिः एव चेष्टा

· बहुतरभवखेदावहा

· भवखेदः = भवस्य खेदः - तत्पुरुषः

· बहुतरभवखेदाः = बहुतराः भवखेदाः - तत्पुरुषः

· बहुतरभवखेदावहा = बहुतरभवखेदान् आवहति इति - सवर्णदीर्घसन्धिः

· जीवभाजाम् = जीवं भजति इति जीवभाक्, तेषाम्

· अजित = न जितः, अजितः - नञ् समासः

· त्वद्वपुः = तव वपुः – तत्पुरुषः

· चिद्रसार्द्रम्

· चिद्रसौ = चित् च रसः च - श्चुत्वसन्धिः

· चिद्रसार्द्रम् = चिद्रसाभ्याम् आर्द्रम् – सवर्णदीर्घसन्धिः

· परमरससुधाम्भोधिपूरे

· परमरसः = परमः च असौ रसः च

· परमरससुधा = परमरसः एव सुधा

· अम्भोधिः = अम्भांसि धीयन्ते अत्र इति

· परमरससुधाम्भोधिः = परमरससुधायाः अम्भोधिः - तत्पुरुष्ः, सवर्णदीर्घसन्धिः

· परमरससुधाम्भोधिपूरे = परमरससुधाम्भोध�